Madhaviya Shankara Vijayam Sarga - III (Devavathara:) Page 30
श्रीविश्वरूपगुरुणा प्रहितौ द्विजाती कन्यार्थिनौ सुतनु किं करवाव वाच्यम् । तस्याः प्रमोदनिचयो न ममौ शरीरे रोमाञ्चपूरमिषतो बहिरुज्जगाम ।। ४२ तेनैव सा प्रतिवचः प्रददौ पितृभ्यां तेनैவ तावपि तयोर्युगलाय सत्यम् । आदाय विप्रमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाய ।। ४३ अस्माच्चतुर्दशदिने भविता दशम्यां जामित्रभादिशुभयोगयुतो मुहूर्तः । एवं विलिख्य गणितादिषु कौशलास्या व्याख्यापराय दिशति स्म सरस्वती सा ।। ४४ तौ हृष्टपुष्टमनसौ विहितेष्टकार्यों श्रीविश्वरूपगुरुमुत्तममैक्षिषाताम् । सिद्धं समीहितमिति प्रथितानुभावो दृष्ट्व तन्मुखमसावथ निश्चिकाय ।। ४५ अन्यः स्वहस्तगतपत्रमदात्स पत्रं दृष्ट्वा जहास सुखवारिनिधौ ममज्ज । विप्रान्यथोचितमपूजयदागतांस्तान्नत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ।। ४६ पित्रानुशिष्टवसुधासुरशंसितेन विज्ञापितः सुखमवाप स विश्वरूपः । कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रियः परिणयोचितसाधनाय ।। ४७ मौहूर्तिकैर्बहुभिरेत्य मुहूर्तकाले संदर्शिते द्विजवरैर्बहुविद्भिरिष्टैः । माङ्गल્યवस्तुसहितोऽखिलभूषणाढ्यः स प्रापदक्षततनुः पृथुशोणतीरम् ।। ४८ शोणस्य तीरमुपयातमुपाशृणोत्स जामा...